(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.20. अध्यायः 020
Mahabharata - Virata Parva - Chapter Topics
विराटेन कीचकस्य दण्डाप्रयोगाद्रुष्ट्या द्रौपद्या तंप्रत्युपालम्भनम् ॥ 1 ॥ युधिष्ठिरेण द्रौपद्याः सान्त्वनम् ॥ 2 ॥ द्रौपद्याऽज्ञानादिव स्वशोकहेतुं पृच्छन्तीं सुदेष्णांप्रति गन्धर्वैः कीचकवधस्य भावित्वकथनम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-20-0x(3068)(28991)
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः।
अशक्तः कीचकं तत्र शासितुं बलदर्पितम् ।
विराटराजः मूतं तु सान्त्वेनैव न्यवारयत् ॥ 1 ॥ 4-20-1(28992)
कीचकं मत्स्यराजेन कृतागसमनिन्दिता।
नापराधानुरूपेण दण्डेन प्रतिपादितम् ॥ 2 ॥ 4-20-2(28993)
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा।
धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे ।
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ॥ 3 ॥ 4-20-3(28994)
संप्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः।
राजानुवर्तनपरान्कीचकं च कृतागसम्।
विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ॥ 4 ॥ 4-20-4(28995)
न राजन्राजवत्किंचित्समाचरसि कीचके।
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते॥ 5 ॥ 4-20-5(28996)
न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन।
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते॥ 6 ॥ 4-20-6(28997)
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च।
न राजा विनयं ब्रूते अमात्याश्च न जानते ॥ 7 ॥ 4-20-7(28998)
नोपालभे त्वां नृपते विराटं नृपसंसदि।
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ॥ 8 ॥ 4-20-8(28999)
सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम्।
विराटनृपते पश्य मामनाथामनागसम् ॥ 9 ॥ 4-20-9(29000)
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ॥ 10 ॥ 4-20-10(29001)
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन्।
स राजा न भवेल्लोके राजशब्दस्य भाजनम् ॥ 11 ॥ 4-20-11(29002)
दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान्।
अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा ।
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ॥ 12 ॥ 4-20-12(29003)
अनाथानां च नाथः स्यादपितॄणां पिता नृपः ।
माता भवेदमातॄणामगुरूणां गुरुर्भवेत्।
अगतीनां गती राजा नृणां राजा परायणम् ॥ 13 ॥ 4-20-13(29004)
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः।
स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ॥ 14 ॥ 4-20-14(29005)
त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम्।
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहतां ॥ 15 ॥ 4-20-15(29006)
विराट उवाच। 4-20-16x(3069)
परोक्षं नाभिजानामि विग्रहं युवयोरहम्।
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ॥ 16 ॥ 4-20-16(29007)
द्रौपद्युवाच। 4-20-17x(3070)
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन्।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ 17 ॥ 4-20-17(29008)
ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः।
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम्।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 18 ॥ 4-20-18(29009)
तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः।
महेष्वासा रणे शूरा गर्विता मानतत्पराः।
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ 19 ॥ 4-20-19(29010)
सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 20 ॥ 4-20-20(29011)
येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 21 ॥ 4-20-21(29012)
येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः।
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ 22 ॥ 4-20-22(29013)
तवाग्रतो विशेषेण प्रजानां च हितैषिणः।
पश्यतो निहता राजंस्तेनेह जगतीपते ॥ 23 ॥ 4-20-23(29014)
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्।
चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ॥ 24 ॥ 4-20-24(29015)
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्।
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ॥ 25 ॥ 4-20-25(29016)
क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम्।
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ॥ 26 ॥ 4-20-26(29017)
मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे।
मां मर्षंयति यः पश्यन्वध्यमानामनागसम् ॥ 27 ॥ 4-20-27(29018)
धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति।
न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ॥ 28 ॥ 4-20-28(29019)
यत्र धर्मो ह्यधर्मेम सत्यं यत्रानृतेन च।
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ 29 ॥ 4-20-29(29020)
वैशम्पायन उवाच। 4-20-30x(3071)
तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम्।
ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन्।
साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ॥ 30 ॥ 4-20-30(29021)
केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम्।
केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ॥ 31 ॥ 4-20-31(29022)
सभ्या ऊचुः । 4-20-32x(3072)
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा।
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ 32 ॥ 4-20-32(29023)
यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम्।
गतिर्हंसं स्मितं कुन्दं सौषा नार्हति पद्वधम् ॥ 33 ॥ 4-20-33(29024)
द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः।
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ॥ 34 ॥ 4-20-34(29025)
पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा।
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ॥ 35 ॥ 4-20-35(29026)
आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः ।
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ॥ 36 ॥ 4-20-36(29027)
अच्छिद्रहस्तपादा च अच्छिद्रदशना च या।
कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ॥ 37 ॥ 4-20-37(29028)
सेयं लक्षणसंपन्ना पूर्णचन्द्रनिभानना।
सुरूपिणी सुवदना नेयं योग्या पदा वधम् ॥ 38 ॥ 4-20-38(29029)
देवदेवीव सुभगा शक्रदेवीव शोभना।
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ॥ 39 ॥ 4-20-39(29030)
इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ॥ 40 ॥ 4-20-40(29031)
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता।
तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ॥ 41 ॥ 4-20-41(29032)
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत्।
अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् ।
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ॥ 42 ॥ 4-20-42(29033)
गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् ।
राजा ह्ययं धर्मशीलो विराटः परलोकभीः ।
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ॥ 43 ॥ 4-20-43(29034)
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः।
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ 44 ॥ 4-20-44(29035)
मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव।
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ 45 ॥ 4-20-45(29036)
श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः।
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ॥ 46 ॥ 4-20-46(29037)
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम्।
या तु भर्तारि शुश्रूषा सा स्वर्गायाभिजायते ॥ 47 ॥ 4-20-47(29038)
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ 48 ॥ 4-20-48(29039)
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन।
बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः ।
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ॥ 49 ॥ 4-20-49(29040)
न क्रोधकालं नियतं पश्यन्ति पतयस्तव।
न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि।
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ॥ 50 ॥ 4-20-50(29041)
यदि ते समयः कश्चित्कृतो ह्यायतलोचने।
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ॥ 51 ॥ 4-20-51(29042)
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः।
क्षमावतामयं लोकः परलोकः क्षमावतांम् ॥ 52 ॥ 4-20-52(29043)
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः।
कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत्॥ 53 ॥ 4-20-53(29044)
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्।
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ॥ 54 ॥ 4-20-54(29045)
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट्।
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ॥ 55 ॥ 4-20-55(29046)
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः।
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ॥ 56 ॥ 4-20-56(29047)
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः।
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ॥ 57 ॥ 4-20-57(29048)
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम्।
केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ॥ 58 । 4-20-58(29049)
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव।
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ॥ 59 ॥ 4-20-59(29050)
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा।
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ॥ 60 ॥ 4-20-60(29051)
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम्।
तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः।
समयं नातिवर्तन्ते वेलामिव महोदधिः ॥ 61 ॥ 4-20-61(29052)
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम्।
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ॥ 62 ॥ 4-20-62(29053)
तामुवाच विराटस्य महिषी शाठ्यमास्थिता।
किमिदं पद्मसंकाशं सुदन्तोष्ठाक्षिनासिकम् ॥ 63 ॥ 4-20-63(29054)
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम्।
बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम्।
नयनाभ्यामजिह्याभ्यां मुखं ते मुञ्चते जलम् ॥ 64 ॥ 4-20-64(29055)
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने।
को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ॥ 65 ॥ 4-20-65(29056)
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति।
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ॥ 66 ॥ 4-20-66(29057)
वैशम्पायन उवाच। 4-20-67x(3073)
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि।
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ॥ 67 ॥ 4-20-67(29058)
कीचको माऽवधीत्तत्र सुराहारीमितोगताम्।
सभायां पश्यतो राज्ञो यथा वै निर्जने वने ॥ 68 ॥ 4-20-68(29059)
सुदेष्णोवाच। 4-20-69x(3074)
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे।
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम्।
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ॥ 69 ॥ 4-20-69(29060)
द्रौपद्युवाच। 4-20-70x(3075)
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः।
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ॥ 70 ॥ 4-20-70(29061)
भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै।
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ॥ 71 ॥ 4-20-71(29062)
तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम्।
एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ॥ 72 ॥ 4-20-72(29063)
निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम्।
न स संक्रुध्यते तावद्गन्धर्वः कामरूपधृत् ॥ 73 ॥ 4-20-73(29064)
नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम्।
तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः।
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ॥ 74 ॥ 4-20-74(29065)
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः।
एकस्तु कुरुते पापं कालपाशवशं गतः।
नीचेनात्मापराधेन कुलं तेन विनश्यति ॥ 75 ॥ 4-20-75(29066)
वैशम्पायन उवाच। 4-20-76x(3076)
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता।
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ॥ 76 ॥ 4-20-76(29067)
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया।
न च स्नाति न चाश्नाति न पांसून्परिमार्जति।
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ॥ 77 ॥ 4-20-77(29068)
तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः।
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ॥ 78 ॥ ॥ 4-20-78(29069)

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः ॥ 20 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.